द्वितीयः पाठ :’कालज्ञो वराहमिहिरः’कक्षा-8

द्वितीयः पाठ :कालज्ञो वराहमिहिरः

कक्षा-8

विषय – संस्कृत (एट ग्रेड अभ्यास पुस्तिका) 

एकपदेन उत्तर लिखत –

प्रश्न 1. वराहमिहिर: कुत्र गत्वा खगोलशास्त्रं पठितवान्?

उत्तर – पाटलिपुत्रनगरं।

 

प्रश्न 2. ‘कपित्थ’ ग्रामः कुत्र अस्ति?
उत्तर – उज्जयिन्याः निकटे।

 

प्रश्न 3. “पादपाः वल्मीकाश्च अधोभौमिकजलस्थिति प्रदर्शयन्ति” इति कस्य कथनम् आसीत् ?
उत्तर – वराहमिहिरस्य।

 

प्रश्न 4. भारते वराहमिहिरः कस्य प्रथम: आचार्य: अस्ति?
उत्तर – फलितज्यौतिषस्य

 

एकवाक्येन उतरं लिखत –

प्रश्न 5. वराहमिहिरेण विरचिताः ग्रन्थेषु कस्याः गूढतत्त्वानां प्रतिपादनमस्ति?
उत्तर – वराहमिहिरेण विरचिताः ग्रन्थेषु खगोलविद्याया: गूढतत्त्वानां प्रतिपादनमस्ति।

 

प्रश्न 6. वराहमिहिर: कस्या: स्थाने वैज्ञानिक दृष्टिकोणस्य महत्त्वं प्रतिपादितवान् ?
उत्तर – वराहमिहिर: गतानुगतिकताया: स्थाने वैज्ञानिक दृष्टिकोणस्य महत्तव प्रतिपादितवान्।

 

प्रश्न 7. आदित्यदासः कस्य उपासकः आसीत् ?
उत्तर – आदित्यदासः आदित्योपासक आसीत्।

 

प्रश्न 8. कस्य संरक्षणे बहुविधकला-विज्ञान सांस्कृतिक केन्द्रादीनि संरक्षितानि आसन्?
उत्तर – उज्जयिन्यां गुप्तवंशस्य संरक्षणे बहुविधकला विज्ञान सांस्कृतिक केन्द्रादीनि संरक्षितानि संरक्षितानि आसन्।


दीर्घ-उत्तरं लिखत –

प्रश्न 9. वराहमिहिरस्य ज्योतिषक्षेत्रे योगदानं लिखत?

उत्तर – वराहमिहिरः वेदज्ञः वैज्ञानिकश्चासीत्। तस्य ज्योतिषक्षेत्रे महत्वपूर्णं योगदानं अस्ति। ग्रहनक्षत्रप्र- भावाश्रितं फलित- ज्यौतिषं नाम शास्त्रं तस्य ग्रंथः अस्ति। तेन कृता कालगणना प्रामाणिकी अस्ति। भारते फलितज्योतिषस्य प्रथमः आचार्यः वराहमिहिरः एव अस्ति। एष एव सर्वप्रथमं प्रतिपादितवान् यत् चन्द्रस्य प्रकाशः स्वकीयः नास्ति, अपितु सः सूर्यस्य प्रकाशेन प्रकाशते। वराहमिहिरेण बृहत्संहिता – बृहज्जातकम् पञ्चसिद्धान्तिका ग्रन्थाः विरचिताः।

 

प्रश्न 10. “कालज्ञो वराहमिहिरः” इत्यस्मिन् पाठे समागतान् षष्ठीविभक्तियुक्तान् पदान् चित्वा लिखत?
उत्तर – यथा – सूर्यस्य
वराहमिहिरस्य
गुप्तवंशस्य
वैज्ञानिकदृष्टिकोणस्य
तस्य
फलितज्योतिषस्य
गुरुत्त्वाकर्षणस्य

 

Education Point की जानकारी टेलीग्राम ग्रुप पर देखने के लिए यहाँ क्लिक करें एवं Telegram Group join करने के लिए यहाँ क्लिक करें।

Education Point की सभी जानकारीयां Category Wise देखने के लिए यहाँ क्लिक करें।

Education Point पर visit करने के लिए आपका धन्यबाद

🙏🏻 आपका दिन शुभ हो 🙏🏻

Leave a Reply

Your email address will not be published. Required fields are marked *