पञ्चमः पाठः ‘अहम् ओरछा अस्मि’ कक्षा 8

पञ्चमः पाठः ‘अहम् ओरछा अस्मि’

कक्षा-8

विषय – संस्कृत

प्रश्न 1. एकपदेन उत्तरं लिखत-

क. ओरछानगरं कस्मिन् मण्डले अस्ति?
उत्तर- टीकमगढ़मण्डले। 


ख. ओरछानगरस्य स्थापना कदा अभवत्?
उत्तर- षोडशशताभब्दे। 


ग. ओरछानगरस्य स्थापना केन कृता?
उत्तर- रूद्रप्रतापेन। 


घ. विषपानस्थलं कुत्र वर्तते?
उत्तर- रामराजामन्दिरे।

ङ. विषपानं कः कृतवान्?
उत्तर- हरदौलः।


च. ओरछानगरं परितः किम्?
उत्तर- वनम्। ( जंगल )

 

प्रश्न 2. एकवाक्येन उत्तरं लिखत-

क. ओरछानगरस्य परिक्षेत्र प्रमुखनदीनां नामानि लिखत।
उत्तर – धसान ,जामिनी-जतारा और बेतवा:।

ख. दुर्गस्य किं वैशिष्टयम् ?
उत्तर – दरबारभवनम् ,शीशभवनम् च दुर्गस्य वैशिष्टयम्।

ग. भवनानां गवाक्षेषु किं विद्यते?
उत्तर – भवनानां गवाक्षेषु प्रस्तरपट्टिकासु सूक्ष्मं शिल्पकार्य विद्यते।

घ. हरदौलमहाराजः किमर्थं विषपानं कृतवान्?
उत्तर – हरदौलमहाराजः महाराज्याः सम्मानरक्षणाय राज्ञः सन्देहनिवारणाय च विषपानं कृतवान्।

ङ. प्रसिद्धकवेः केशवदासस्य स्थानं कुत्र अस्ति?
उत्तर – प्रसिद्धकवेः केशवदासस्य स्थानं उद्यानस्य नातिदूरे अस्ति?

च. ओरछानगरे कानि द्रष्टव्यानि स्थलानि सन्ति?
उत्तर – ओरछानगरे लक्ष्मीनारायणमन्दिर – फूलबाग – दीवान हरदौलभवन – सुन्दरभवन – शहीदस्मारक प्रभृतीनि द्रष्टव्यानि स्थलानि सन्ति।

 

प्रश्न 3. उचितं मेलयत-
(अ)……………………………………..(ब)

क. ओरछानगरस्य परीक्षेत्रे – तं प्रथमं पूजयन्ति।
ख. विवाहावसरे महिलाः – अद्भुतं भाति।
ग. प्रस्तरेषु कलायाः चित्रणम् – चतस्त्रः नद्दः सन्ति।
घ. जुझारसिंहस्य प्रियः अनुजः – महाराजवीरसिंह प्रथमस्य शासने अभवत्।
ङ. सर्वाधिकं निर्माणकार्यं – हरदौलः आसीत्।

उत्तर-
(अ)…………………………………………(ब)
क. ओरछानगरस्य परीक्षेत्रे – चतस्त्रः नद्दः सन्ति।
ख. विवाहावसरे महिलाः – तं प्रथमं पूजयन्ति।
ग. प्रस्तरेषु कलायाः चित्रणम् – अद्भुतं भाति।
घ. जुझारसिंहस्य प्रियः अनुजः – हरदौलः आसीत्।
ङ. सर्वाधिकं निर्माणकार्यं – महाराजवीरसिंह
प्रथमस्य शासने अभवत्।

प्रश्न 4. उचितपदेन रिक्तस्थानं पूरयत- 


क. विषपानस्थलं उद्दानस्य मध्ये वर्तते।
( उद्दानस्य मध्ये / मन्दिरस्य प्रांगणे )

ख. दरबारभवनं दुर्गे अस्ति।
( दुर्गे / मार्गे )


ग. केशवदासः हिंदीभाषायाः कविः आसीत्।
( संस्कृतभाषायाः / हिंदीभाषायाः )


घ. ओरछानगरस्य इतिहासः रोचकः अस्ति।
( रोचकः / मोचकः )


ङ. जामिनीनद्दाः तीरे जम्बूवृक्षाः अधिकाः भवन्ति।
( दाडिमवृक्षाः / जम्बूवृक्षाः )

प्रश्न 5. नामोल्लेखपूर्वकं समासविग्रहं कुरुत
क. शिल्पकार्यम्
ख. काव्यकलाविदग्धायाः
ग. विषपानस्थलम्
घ. विवाहावसरे
ङ. चतुर्भुजमन्दिरम्

उत्तर-
सम्स्तपदम….समास-विग्रहः….समासस्य नाम
क. शिल्पकार्यम्….शिल्पस्य कार्यम्…. तत्पुरुष
ख. काव्यकलाविदग्धायाः….काव्यकलयां विदग्धायाः…. तत्पुरुष
ग. विषपानस्थलम्….विषपानाय स्थलम्…. तत्पुरुष
घ. विवाहावसरे….विवाहस्य अवसरे…. तत्पुरुष
ङ. चतुर्भुजमन्दिरम्….चतुर्भुजस्य मन्दिरम्…. तत्पुरुष

प्रश्न 6. नामोल्लेखपूर्वकं सन्धि विच्छेदं कुरुत-
क. अत्रैव
ख. महत्त्वञ्च
ग. अद्यावधि
घ. सर्वाधिकम्
ङ. भवनमपि
उत्तर-
शब्दः….संधि विच्छेदः….सन्धि-नाम
क. अत्रैव….अत्र+एव….स्वर संधिः(वृद्धिः)
ख. महत्त्वञ्च….महत्त्वम्+च….व्यंजन संधिः
ग. अद्यावधि….अद्य+अवधि….स्वर संधिः(वृद्धिः)
घ. सर्वाधिकम्….सर्व+अधिकम्….स्वर संधिः(वृद्धिः)
ङ. भवनमपि….भवनम्+अपि….व्यंजन संधिः

प्रश्न 7. समीचीनं चिनुत (आम्/न)-
(ठीक को चुनो, ठीक के आगे ‘आम्’ (हाँ) और गलत के आगे ‘न’ (नहीं) लिखो-)
(क) ओरछानगरस्य दुर्गः सुदृढ़ः कलात्मकः च नास्ति। [न]
(ख) अभयारण्यं वन्यपशूनां रक्षणाय भवति। [आम्]
(ग) ओरछानगरे भित्तिकासु मनोहराणि चित्राणि वर्तन्ते। [आम्]
(घ) ओरछानगरस्य निकटे सप्तधाराः सन्ति। [आम्]
(ङ) रामराजामन्दिरे परशुरामस्य प्रतिमा अस्ति। [न]

Education Point की जानकारी टेलीग्राम ग्रुप पर देखने के लिए यहाँ क्लिक करें एवं Telegram Group join करने के लिए यहाँ क्लिक करें।

Education Point की सभी जानकारीयां Category Wise देखने के लिए यहाँ क्लिक करें।

Education Point पर visit करने के लिए आपका धन्यबाद

🙏🏻 आपका दिन शुभ हो 🙏🏻

Leave a Reply

Your email address will not be published. Required fields are marked *