तृतीयः पाठः गणतन्त्रदिवसः – संस्कृत

तृतीयः पाठः गणतन्त्रदिवसः

कक्षा-8

विषय – संस्कृत

 

(विद्यालयस्य सभाकक्षे “वन्दे मातरम” इति राष्ट्रीयगीतस्य पूर्वाभ्यासः प्रचलति। तदवसरे शिक्षकः प्रविशति)

शिक्षकः – सुप्रभातम्! छात्रा:! कथं चलति पूर्वाभ्यास:?

सर्वे – गुरवे नमः, सम्यक् प्रचलति। गणतन्त्रदिवसार्थं राष्ट्रगानं राष्ट्रगीतं च ताललयबद्धम् अभ्यस्यामः।

शिक्षकः – उत्तमम्! देशभक्तिपराणि अन्यान्यगीतानि अपि प्रस्तोतुं प्रभवन्ति।

श्यामला – गुरो! भाषणार्थं भवत: मार्गदर्शनम् आवश्यकम्।

शिक्षकः – निस्सङ्कोचम् पृच्छतु। यदहं जानामि तत्कथयामि।

ज्योत्सना – गणतन्त्रदिवसः स्वतन्त्रतादिवस इव राष्ट्रियं-पर्व किल?

शिक्षकः – आम्, जनवरिमासस्य षड्विंशे दिनाङ्के (२६ जनवरी) भारतीयाः वयं गणतन्त्रदिवसम् उत्साहेन आयोजयामः।

राजेशः – अस्मिन् पर्वणि दिल्लीनगरे स्थलसेना जलसेना-वायुसेनानां पथचलनादिकम् अद्भुतं चित्ताकर्षकं च भवतीति श्रुतम् मया।

सुहासिनी – गुरो! अत्र महोत्सवे वायुसेनायाः जेटविमानानि उड्डयन्ते, वर्णरञ्जितधूमं च निस्सारयन्ति इति श्रुतम् मया।

शिक्षकः – सत्यम्। गणतन्त्रदिवसे भारतराष्ट्रपतिः स्थल-जल-वायुसेनानायकानाम् अभिवन्दनं स्वीकरोति एवं विभिन्नराज्येषु ततद्राज्यपाला: प्रतिनिधित्वं वहन्ति। विविध प्रान्तेभ्यः समागता: कलाकाराः सांस्कृतिककार्यक्रमैः जानपदनृत्यैः च जनमांसि रञ्जयन्ति।

नरेश: – गुरो! गणतन्त्रम् इत्यस्य कोऽर्थः?

शिक्षकः – समुचितः प्रश्नः, भारतं स्वशासनाधारण रचिताना राज्यानां गणरूपं वर्तते। राज्यस्तरे

श्यामला – गुरो! अस्य पर्वणः ऐतिहासिक महत्त्वं ज्ञातुम्। इच्छामि।

शिक्षक: – अहं विस्तरेण वदामि। परतन्त्रताकाले ३१-१२-१९२९ दिनाङ्कतः ०१-०१-१९३० यावत्तात्कालिक काङ्ग्रेससंस्थायाः लाहौरनगरे अधिवेशनं अभवत्। तस्मिन् अधिवेशने ‘सर्वैः राष्ट्रनायकैः सार्वभौमतन्त्रं रचयामः’ इति। प्रतिज्ञा कृता। तत्रैव अधिवेशने राष्ट्रभक्तैः त्रिवर्णध्वजारोहण अपि कृतम्। भारतीयानाम् अयं प्रतिज्ञास्वप्नः १९४७ तमे वर्षे अगस्तमासस्य पञ्चदश दिनाङ्के पूर्णतां गतः। देश: स्वतन्त्रः अभवत्। तदारभ्य प्रतिवर्ष १५ अगस्तदिने वयं स्वतन्त्रतादिवसं आयोजयामः। अनन्तरं २६ जनवरी १९५० तमे वर्षे अस्माकं संविधानम् प्रारब्धम् इति कारणल: प्रतिवर्ष-अस्मिन् दिने समग्रे राष्ट्रे वयं गणतन्त्रदिवसम् आचरामः।

सर्वे – धन्यवादाः, अस्माभिः स्वतन्त्रतादिवसस्य, गणतन्त्रदिवसस्य च महत्त्वं ज्ञाताम्।

शिक्षकः – स्वस्ति! सर्वेभ्यः

शब्दार्थाः-
सुप्रभातम् = सुबह का नमस्कार।
मार्गदर्शनम् = निर्देश।
ताल-लयबद्धम् = गाने की धुन से युक्त/ताल और लय से युक्त।
अभ्यस्यामः = हम अभ्यास करते हैं।
देशभक्तिपराणि = देशभक्ति से युक्त।
प्रस्तोतुम् = प्रस्तुत करने के लिए।
चित्ताकर्षकम् = मन को आकर्षित करने वाला।
भाषाधारण = भाषा के आधार से।
त्रिवर्ण ध्वजारोहणम् = तीन रंग के झण्डे का फहराना।
सार्वभौमतन्त्रम् = भारत की सम्पूर्ण भूमि पर अपना शासन।
प्रतिज्ञास्वप्नः = प्रतिज्ञा रूपी स्वप्न।
० कार्यगतमभवत् = लागू हुआ।
स्वस्ति = कल्याण हो।

प्रश्न 1. एकपदेन उत्तरं लिखत-

(क) कस्मिन् मासे गणतन्त्रदिवसः भवति?
उत्तर- जनवरिमासे।

(ख) सेनानायकानाम् अभिवन्दनं कः स्वीकरोति?
उत्तर- भारतराष्ट्रपतिः।

(ग) राज्येषु/राज्यराजधानीषु अभिवन्दनं के स्वीकुर्वन्ति?
उत्तर- राज्यपालाः।

(घ) प्रथमं कस्मिन् अधिवेशने त्रिवर्णध्वजारोहणं कृतम्?
उत्तर- काङ्ग्रेससंस्थायाः।

(ङ) प्रतिज्ञास्वप्नः कस्मिन् वर्षे साक्षात्कृतः?
उत्तर- १९४७ तमे। (१९४७ में)

प्रश्न 2. एकवाक्येन उत्तरं लिखत

(क) सभाकक्षे कस्य गीतस्य पूर्वाभ्यासः प्रचलित?
उत्तर- सभाकक्षे ‘वन्दे मातरम्’ इति राष्ट्रियगीतस्य पूर्वाभ्यासः प्रचलित।

(ख) भारतस्य राष्ट्रियपर्वणी के?
उत्तर- भारतस्य राष्ट्रियपर्वणी गणतन्त्रदिवसः स्वतन्त्रता दिवसः च।

(ग) कस्मिन् दिनाङ्के वयं स्वतन्त्रतादिवसं आयोजयामः?
उत्तर- १५ अगस्तदिनाङ्के वयं स्वतन्त्रतादिवसं आयोजयामः।

(घ) राष्ट्रभक्तैः का प्रतिज्ञा कृता?
उत्तर- राष्ट्रभक्तः ‘सर्वेः राष्ट्रनायकैः सार्वभौमतन्त्र रचयामः’ इति प्रतिज्ञा कृता।

(ङ) कलाकाराः किं कुर्वन्ति?
उत्तर- कलाकाराः सांस्कृतिककार्यक्रमैः जानपदनृत्यैः च जनमनांसि रञ्जयन्ति।

प्रश्न 3. प्रदत्तैः शब्दैः प्रश्ननिर्माणं कुरुत
किम्, कथम्, कः, कैः, कुत्र।

यथा- जनवरिमासस्य षड्विंशे दिनाङ्के गणतन्त्रदिवसम् आचरामः।
उत्तर- जनवरिमासस्य कस्मिन् दिनाङ्के गणतन्त्रदिवसम् आचरामः?

(क) गणतन्त्रदिवसः राष्ट्रिय पर्वं वर्तते।
उत्तर- गणतन्त्रदिवसः किं वर्तते?

(ख) भू-जल वायुसेनानां प्रदर्शनं चित्ताकर्षकम् भवति।
उत्तर- भू-जल वायुसेनानां प्रदर्शनं कथम् भवति?

(ग) दिल्लीनगरे राष्ट्रपतिः सेनानायकानाम् अभिवन्दनं स्वीकरोति।
उत्तर- दिल्ली नगरे कः सेनानायकानाम् अभिवन्दनं स्वीकरोति?

(घ) कलाकाराः नृत्यैः जनमनांसि रञ्जयन्ति।
उत्तर- कलाकाराः कैः जनमनांसि रञ्यन्ति?

(ङ) लाहौराधिवेशने प्रथमवारं त्रिवर्णध्वजारोहणं जातम्।
उत्तर- कुत्र प्रथमवारं त्रिवर्णध्वजारोहणं जातम्?

प्रश्न 4. रिक्तस्थानानि पूरयत-

(रञ्जयन्ति, सेनानायकैः, गणतन्त्रदिवसः राज्यपालाः, स्वशासनाधारण)
(क) राष्ट्रपतिः सेनानायकैः स्वीकरोति।
(ख) कलाकाराः रञ्जयन्ति सेनानायकैः..।
(ग) जनवरिमासस्य षड्विंशे दिनाङ्के गणतन्त्रदिवसः भवति।
(घ) भारतं स्वशासनाधारण रचितानां राज्यानां गणरूपं वर्तते।
(ङ) राज्येषु राज्यपालाः प्रतिनिध्यिं वहन्ति।

 

प्रश्न 5. उचितं योजयत-
अ-ब
(क) राज्यम्- जनगणमन अधिनायक जय हे
(ख) कला-उड्डयन्ते
(ग) राष्ट्रीयं गीतम्- राज्यपालः
(घ) विमानानि-कलाकारः
(ङ) राष्ट्रगानम्-वंदे मातरम्
उत्तर:
(क) राज्यम्-राज्यपालः
(ख) कला-कलाकारः
(ग) राष्ट्रीयं गीतम्-वंदे मातरम्
(घ) विमानानि-उड्डयन्ते
(ङ) राष्ट्रगानम्-जनगणमन अधिनायक जय हे

प्रश्न 6. विशेषणपदानि उपयुज्य दश वाक्यानि लिखत-
( विशेषण पद लगाकर 10 वाक्य लिखो- )
मातरं वन्दे
यथा- सुखदां मातरं वन्दे।
उत्तर-
(1) सुजलां मातरं वन्दे।
(2) सुफलां मातरं वन्दे।
(3) मलयजशीतला मातरं वन्दे।
(4) शस्यश्यामलां मातरं वन्दे।
(5) वरदां मातरं वन्दे।
(6) शुभ्रज्योत्स्नां मातरं वन्दे।
(7) पुलकितयामिनी मातरं वन्दे।
(8) शोभिनीं मातरं वन्दे।
(9) सुहासिनी मातरं वन्दे।
(10) तारिणी मातरं वन्दे।

 

प्रश्न 7. सन्धिम् अथवा सन्धिविच्छेदं कुरुत-
उत्तर-
(क) स्वतन्त्रतादिवस इव – स्वतन्त्रता + दिवसेव।
(ख) निस्सारयन्तीति – निस्सारयन्ति + इति।
(ग) इत्यस्य – इति + अस्य।
(घ) सोऽयम् – सः + अयम्।
(ङ) अधुनावगतम् – अधुना + अवगतम्।

 

प्रश्न 8. अव्ययानि चित्वा लिखत
(क) कथं चलति पूर्वाभ्यासः।
(ख) राष्ट्रगानं राष्ट्रगीतं च अभ्यसामः।
(ग) अत्र महोत्सवे पथचलनम् भवति।
(घ) त्रिवर्णध्वजारोहणम् अपि कृतम्।
(ङ) अधुना अवगतम् अस्माभिः।
उत्तर:
(क) कथम्
(ख) च
(ग) अत्र
(घ) अपि
(ङ) अधुना।

Education Point की जानकारी टेलीग्राम ग्रुप पर देखने के लिए यहाँ क्लिक करें एवं Telegram Group join करने के लिए यहाँ क्लिक करें।

Education Point की सभी जानकारीयां Category Wise देखने के लिए यहाँ क्लिक करें।

Education Point पर visit करने के लिए आपका धन्यबाद

🙏🏻 आपका दिन शुभ हो 🙏🏻

Leave a Reply

Your email address will not be published. Required fields are marked *